Listen Madhurashtakam on Spotify
Follow on Spotify
Listen on YouTube Music
Listen on You Tube Platform

Lyrics with Samput by Kavi Sagar Suman
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं मधुराधिपते अखिलं मधुरम्॥१॥
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते अखिलं मधुरम्॥२॥ [1]
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते अखिलं मधुरम्॥३॥ [1]
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपते अखिलं मधुरम्॥४॥
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपते अखिलं मधुरम्॥५॥
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपते अखिलं मधुरम्॥६॥ [1]
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपते अखिलं मधुरम्॥७॥ [1, 2]
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं फलितं मधुरं मधुराधिपते अखिलं मधुरम्॥८॥ [1]
मधुरं मधुरं मधुरं मधुरं मधुराधिपते मदनं मधुरं
Article by
Kavi Sagar Suman